By Dr Manish Pandit
I write this post as I never thought that this question would evoke so much anger in a few people. Those people may not read the post.
I have given the relevant verse numbers as to whether Sri Rama ate meat or not with the verses. Those who wish may check most translations of almost all scholars except Gita Press for more. I will post the translations here too a bit later.
Ayodhya Kanda 2-52-102
तौ तत्र हत्वा चतुरः महा मृगान् |
वराहम् ऋश्यम् पृषतम् महा रुरुम् |
आदाय मेध्यम् त्वरितम् बुभुक्षितौ|
वासाय काले ययतुर् वनः पतिम् || २-५२-१०२
Ayodhya Kanda 2-96-1/2
तां तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम् |
निषसाद गिरिप्रस्थे सीतां मांसेन चन्दयन् || २-९६-१
इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना |
एवमास्ते स धर्मात्मा सीतया सह राघवः || २-९६-२
Ayodhya Kanda 2-55-32/33
क्रोशमात्रम् ततो गत्वा भ्रातरौ रामलक्ष्मनौ || २-५५-३३
बहून्मेध्यान् मृगान् हत्वा चेरतुर्यमुनावने |
Ayodhya Kanda 2-96-1/2
तां तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम् |
निषसाद गिरिप्रस्थे सीतां मांसेन चन्दयन् || २-९६-१
इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना |
एवमास्ते स धर्मात्मा सीतया सह राघवः || २-९६-२
Aranya Kanda 3-47-23
समाश्वस मुहूर्तम् तु शक्यम् वस्तुम् इह त्वया || ३-४७-२२
आगमिष्यति मे भर्ता वन्यम् आदाय पुष्कलम् |
रुरून् गोधान् वराहान् च हत्वा आदाय अमिषान् बहु || ३-४७-२३
Aranya Kanda 3-73-13/17
न उद्विजन्ते नरान् दृष्ट्वा वधस्य अकोविदाः शुभाः || ३-७३-१३
घृत पिण्ड उपमान् स्थूलान् तान् द्विजान् भक्षयिष्यथः |
रोहितान् वक्र तुण्डान् च नल मीनान् च राघव || ३-७३-१४
पंपायाम् इषुभिः मत्स्यान् तत्र राम वरान् हतान् |
निस्त्वक्पक्षानयसतप्तानकृशान्नैककण्टकान् – यद्वा –
निः त्वक् पक्षान् अयस तप्तान् अकृशान् न अनेक कण्टकान् ||
३-७३-१५
तव भक्त्या समायुक्तो लक्ष्मणः संप्रदास्यति |
भृशम् तान् खादतो मत्स्यान् पंपायाः पुष्प संचये || ३-७३-१६
पद्म गन्धि शिवम् वारि सुख शीतम् अनामयम् |
उद्धृत्य स तदा अक्लिष्टम् रूप्य स्फटिक सन्निभम् || ३-७३-१७
अथ पुष्कर पर्णेन लक्ष्मणः पाययिष्यति |
Verses that show Sri Rama killed animals in the performance of religious ceremonies:
Ayodhya Kanda 2-56-21/28 [Purifactory ceremony]
ताम् निष्ठताम् बद्धकटाम् दृष्ट्वा रमः सुदर्शनाम् |
शुश्रूषमाणम् एक अग्रम् इदम् वचनम् अब्रवीत् || २-५६-२१
ऐणेयम् मांसम् आहृत्य शालाम् यक्ष्यामहे वयम् |
कर्त्व्यम् वास्तुशमनम् सौमित्रे चिरजीवभिः || २-५६-२२
मृगम् हत्वाऽऽनय क्षिप्रम् लक्ष्मणेह शुभेक्षण
कर्तव्यः शास्त्रदृष्टो हि विधिर्दर्ममनुस्मर || २-५६-२३
भ्रातुर्वचन माज्ञाय लक्ष्मणः परवीरहा |
चकार स यथोक्तम् च तम् रामः पुनरब्रवीत् || २-५६-२४
इणेयम् श्रपयस्वैतच्च्चालाम् यक्ष्यमहे वयम् |
त्वरसौम्य मुहूर्तोऽयम् ध्रुवश्च दिवसोऽप्ययम् || २-५६-२५
स लक्ष्मणः कृष्ण मृगम् हत्वा मेध्यम् पतापवान् |
अथ चिक्षेप सौमित्रिः समिद्धे जात वेदसि || २-५६-२६
तम् तु पक्वम् समाज्ञाय निष्टप्तम् चिन्न शोणितम् |
लक्ष्मणः पुरुष व्याघ्रम् अथ राघवम् अब्रवीत् || २-५६-२७
अयम् कृष्णः समाप्त अन्गः शृतः कृष्ण मृगो यथा |
देवता देव सम्काश यजस्व कुशलो हि असि || २-५६-२८